संस्कृत निबंध - मम पाठशाला


मम पाठशाला

विद्या अतीव आवश्यकी। विद्यां विना मनुष्यः प्रगतिं कर्तुं न शक्नोति।
विद्या परा देवता।
 परन्तु साम्प्रतं यावत् विद्यार्जनं सरलम् अस्ति तावत् पुराकाले न आसीत्। प्राचीनकाले छात्राः गुरुकुलं गच्छन्ति स्म। तदा छात्राः गुरुगृहे गुरुसेवां कुर्वन्ति स्म। पठन्ति स्म। परन्तु साम्प्रतं गुरुकुलानां संख्या न्यूना अस्ति। अधिकांशाः छात्राः पाठशालायां पठन्ति। 

मम पाठशाला

मह्यं मम पाठशाला अतीव रोचते। अहम् अपि प्रतिदिनं पाठशालां गच्छामि।

  • मम पाठशालायाः नामधेयम्

मम पाठशालायाः नाम चिन्मय - विद्यालयः अस्ति। मम पाठशाला देहलीनगरे अस्ति। मम पाठशाला नगरात् किञ्चित् बहिः अनतिदूरे अस्ति। अतः तत्र प्रदूषणं नास्ति। रमणीयं वातावरणम् अस्ति। 

  • मम पाठशालायाः भवनम्

मम पाठशालायाः भवनं विशालम् अस्ति। तत्र अनेके कक्षाः सन्ति। विस्तीर्णं क्रीडाङ्गण् अस्ति। क्रीडाङ्गणे उद्यानम् अपि अस्ति। पाठशालायाः एकस्मिन् कोणे ग्रन्थालयः अस्ति। तस्मिन् ग्रन्थालये सर्वप्रकारकाः ग्रन्थाः, पुस्तकानि, वार्तापत्राणि, मासिकपत्रिकाः च सन्ति। अपरत्र च आधुनिकैः यन्त्रैः सुसज्जिता संगणकशाला अपि अस्ति। तत्र अनेके संगणकाः सन्ति।

मम पाठशालायाः शिक्षकाः

मम पाठशालायाम् अनेके शिक्षकाः सन्ति। आहत्य तेषां संख्या पञ्चसप्ततिः (७५) इति अस्ति। शिक्षकाः भाषा - गणित - विज्ञान - इतिहास - इत्यादीन् विषयान् पाठयन्ति। पाठशालायां छात्राः पठन्ति। शिक्षकाः छात्रान् पाठयन्ति।

  • शिक्षकाणाम् अध्यापनम्

सुस्वभाविनः शिक्षकाः प्रेम्णा पाठयन्ति। सर्वे शिक्षकाः ज्ञानवन्तः सन्ति। मम शिक्षकाः न केवलं पाठयन्ति, अपि तु समये समये सम्यक् मार्गदर्शनम् अपि कुर्वन्ति। जीवने आवश्यकानां गुणानां पोषणं कुर्वन्ति। दुर्गुणान् अपसारयन्तति। शिक्षकाः छात्रेषु पितृवत् स्निह्यन्ति। गुरुपौर्णिमातिथौ तथा शिक्षकदिने च वयं शिक्षकाणां पूजां कुर्मः। तेषाम् आशीर्वचनं च स्वीकुर्मः। अहं मम सर्वेषु शिक्षकेषु स्नेहं करोमि।

  • मुख्याध्यापकः

मम पाठशालायाः शिक्षकेषु आ॰ चन्द्रमोहनवर्यः पाठशालायाः मुख्याध्यापकः अस्ति। सः अतीव दयालुः अस्ति। बहुवारं सः वर्गम् आगत्य मार्गदर्शनं करोति। यदा कदाचित् कश्चन छात्रः कक्षायां कोलाहलम् उद्दण्डतां वा करोति, तदा अस्माकं शिक्षकाः तम् उद्दण्डं छात्रं मुख्याध्यापस्य प्रकोष्ठं प्रति नयन्ति।

मम पाठशालायाः दिनक्रमः

मम पाठशालायाः आरम्भः एकादशवादने भवति। पाठशालायाः सेवकः घण्टानादं कृत्वा आरम्भस्य सङ्केतं करोति। तं सङ्केतं श्रुत्वा सर्वे छात्राः क्रीडाङ्गणे एकत्रिताः भवन्ति। एकत्रीभूय सर्वे प्रार्थनां कुर्वन्ति। राष्ट्रगीतं गायन्ति। तदनन्तरं सर्वे छात्राः पङ्क्तिबद्धाः स्वस्वकक्षां प्रति गच्छन्ति।

कक्षायां वर्गशिक्षकः आगच्छति। आगच्छन् शिक्षकः सर्वैः छात्रैः प्रणम्यते। आशीर्वचनम् उक्त्वा शिक्षकः छात्राणाम् उपस्थितिं अभिलिखति। अनन्तरं पाठस्य आरम्भः भवति। एवमेव पाठत्रयं भवति। ततः भोजनावकाशः भवति। भोजनावकाशे सर्वे छात्राः मिलित्वा पाथेयं खादन्ति। पुनः कक्षा आरभ्यते। पुनश्च पाठत्रयं भवति। पाठत्रयात् अनन्तरं पुनः एकः दशनिमिषाणां लघु-अवकाशः भवति। लघु-अवकाशात् अनन्तरं अन्तिमं पाठद्वयं भवति। एवं प्रतिदिनम् अष्टौ पाठाः भवन्ति। अन्तिमपाठस्य अन्ते पुनः प्रार्थना भवति। समाप्तौ प्रार्थनायां विसर्जनं भवति। सर्वे छात्राः गृहं गच्छन्ति।

मम पाठशालायाः पाठ्यक्रमः


  • भाषाः

मम पाठशालायां प्रत्येकं छात्रः भाषात्रयं पठति। आङ्ग्ल - मराठी - कन्नड - हिन्दी - संस्कृत - इत्यादयः भाषाः पाठ्न्ते। एतासु भाषासु आङ्ग्लभाषां सर्वे छात्राः अनिवार्यतया पठन्ति। द्वितीयभाषारूपेण हिन्दीसंस्कृतयोः एकां भाषां पठन्ति। तथा च क्षेत्रीयभाषारूपेण मराठीकन्नडयोः एकां पठन्ति। अहं द्वितीयभाषारूपेण संस्कृतभाषायाः चयनं कृतवान्।

  • शास्त्राणि

गणितं, विज्ञानं, सामाजिक - शास्त्राणि इत्यादयः शास्त्रविषयाः अपि पाठ्यन्ते। शास्त्रविषयाणां शिक्षकाः कक्षासु शास्त्रपाठयन्ति। तथैव प्रात्यक्षिकं कर्तुं बहुवारं प्रयोगशालां प्रति अपि नयन्ति। अस्माकं पाठशालायाः प्रयोगशाला सुसज्जा, आधुनिकी च अस्ति। तस्यां प्रयोगशालायां वयं विविधयन्त्रैः, रसायनैः, पदार्थैः च प्रयोगान् कुर्मः।

एतदतिरिच्य योगः, क्रीडा, चित्रकला, संगीतं च इत्यादयः विषयाः अपि पाठ्यन्ते। मनोशरीरयोः विकासः सम्यक् भवति। एतेषु विषयेषु मह्यं संगीतम् अतीव रोचते। 

  • शैक्षिकपर्यटनम्

वर्षे एकवारम् अस्माकं शिक्षकाः अस्मान् शैक्षिकपर्यटनार्थं नयन्ति। विषयानुगुणं शिक्षकाः विभिन्नेषु स्थलेषु अस्मान् भ्रामयन्ति। ऐतिहारिकस्थानानि, यन्त्रशाला, आपणानि, कृषिक्षेत्राणि, वनम् इत्यादीनि स्थानानि छात्रैः अवश्यं द्रष्टव्यानि।वयं कक्षायां यत् पठामः तत् प्रत्यक्षं दृष्ट्वा हर्षः भवति। 

मम पाठशालायाम् उत्सवाः 

भारतः उत्सवप्रियः देशः अस्ति। अस्माकं पाठशालायाम् अपि विविधप्रकारकाः उत्सवाः भवन्ति। 

  • उत्सवाः

स्वतन्त्रता दिवसः, गणतन्त्रदिवसः, होलिकोत्सवः, गुरुपौर्णिमा, वसन्तपञ्चमी, ख्रिसमस्, बुद्धपौर्णिमा, महावीरजयन्ती, ईद् इत्यादयः उत्सवाः भवन्ति। दीपावल्यां तु पाठशालायाः अवकाशः भवति, तथापि अवकाशात् पूर्वमेव तस्य उत्सवः क्रियते।

  • महापुरुषाणां दिवसाः

महापुरुषाणां जयन्ती तथा पुण्यतिथिः अपि भवति। यथा महात्मा गान्धी, स्वामी विवेकानन्दः, नेताजी सुभाषचन्द्र - बोसः, पं॰ नेहरुः, महात्मा फुले, छत्रपति - शिवाजी, ़डॉ॰ आम्बेडकरः इत्यादीनां जयन्ती वा पुण्यतिथिः वा भवतु , तस्मिन् दिवसे पाठशालायां कार्यक्रमः भवति।

  • संस्कृतसप्ताहः

वयं सर्वे संस्कृतछात्राः संस्कृतसप्ताहस्य आयोजनं कुर्मः। संस्कृतसप्ताहकाले सर्वे संस्कृतछात्राः संस्कृतम् एव वदन्ति। संस्कृतसप्ताहकाले संस्कृतपरीक्षाः, श्लोकपठनस्पर्धाः, संस्कृतनाटकम् इत्यादयः उपक्रमाः भवन्ति। वयं नगरं गत्वा वीथिनाटकम् अपि कुर्मः। 

  • मम पाठशालायाः वार्षिकः महोत्सवः

वर्षे एकवारं पाठशालायाः वार्षिकः महोत्सवः स्नेहसम्मेलनम् अपि भवति। स्नेहसम्मेलने पाठशालायाः सर्वे छात्राः, शिक्षकाः, छात्राणां पितरः आगच्छन्ति। तस्मिन् महोत्सवे पाठशालायाः सर्वासु कक्षासु छात्राः स्वकलागुणान् प्रदर्शयन्ति। तत्र नृत्यं, गीतं, नाटकं, भाषणं च भवति। महोत्सवस्य अन्ते सहभोजनं भवति।

मम पाठशालायां मम मित्राणि

अहम् अष्टमकक्षायां पठामि। मम कक्षायां अनेके छात्राः पठन्ति। ते सर्वे छात्राः मम मित्राणि सन्ति। तेषु मित्रेषु निखिलः, विश्वासः, इन्दुशेखरः च मम परममित्राणि सन्ति। अहं मित्रैः सह पठामि, क्रीडामि, वार्तालापं च करोमि। मम मित्राणि सायंकाले मम गृहम् आगच्छन्ति। कदाचित् अहं तेषां गृहं गच्छामि। वयम् एकत्रीभूय गृहकार्यं कुर्मः।


मम पाठशाला मम गृहमेव

पाठशाला मम स्वगृहम् इव एव अस्ति। यथा गृहे पितरौ स्नेहं कुरुतः तथा पाठशालायां शिक्षकाः पितृवत् स्निह्यन्ति। यथा गृहे बन्धुभगिन्यः सन्ति। तथा पाठशालायां मित्राणि बन्धुवत् स्निह्यन्ति। यथा गृहे पितरौ भोजनेन उदरं पूरयतः तथा पाठशालायां शिक्षकाः ज्ञानेन बुद्धिं पूरयन्ति। पाठशालायां शिक्षकाः यत् ज्ञानं ददति, तेन अस्माकं जीवनं प्रकाशितं भवति। यथा पितरौ स्नेहेन हृदयं पोषयन्ति तथा शिक्षकाः मित्राणि च मनः पोषयन्ति।