मम प्रियः खगः

ख - इत्यस्य शब्दस्य अर्थः आकाश इति। अतः खग इत्यस्य शब्दस्य अर्थः एवं भवति - खं गच्छति इति खगः। अर्थात् यः आकाशं गच्छति सः खगः। खगाः पक्षबलेन उड्डानं कुर्वन्ति। तेषु खगेषु मम प्रियः खगः - मयूरः इति।

मम प्रियः खगः - मयूरः

मयूरः

मयूरः अतीव सुन्दरः खगः अस्ति। मयूरस्य पिच्छाः मनमोहकाः सन्ति। तस्य पिच्छानां सौन्दर्यम् अतीव रमणीयम्। वस्तुतः मयूरः खगः अस्ति। मयूरस्य मस्तके एका शिखा अस्ति। सा शिखा अपि मयूरस्य सौन्दर्यं द्विगुणितं करोति। परन्तु मयूरी तावती सुन्दरी न भवति। तस्याः पिच्छाः मयूरः इव न भवन्ति। तथापि मयूरस्य पत्नी अस्ति अतः तस्याः अपि स्वीकारः क्रियते।

वस्तुतः अस्मिन् विश्वे अनेकप्रकारकाः मयूराः सन्ति। भारतीयः मयूरः, ब्रह्मदेशीयः मयूरः, अफ्रिकीयः मयूरः इत्यादयः। प्रायशः भारतदेशे नीलवर्णः मयूरः दृश्यते। परन्तु भिन्नवर्णाः मयूराः अपि सन्ति। यथा - शुभ्रः, जम्बुः, हरितः, धूसरः इत्यादयः। एतेषु शुभ्रवर्णः मयूरः भारतदेशे अपि सन्ति।

मयूरस्य नृत्यम्

मयूरः वर्षायाः स्वागतं करोति। वर्षा-ऋतौ यदा कृष्णाः मेघाः आकाशे आगच्छन्ति, तदा मयूरः केकां करोति। (केका नाम मयूरस्य ध्वनिः)  मयूरः तस्य पिच्छानां विस्तारं करोति। पिच्छानां विस्तारं कृत्वा मयूरः नृत्यति। एवं यदा मयूरः केकां कुर्वन् पिच्छानां विस्तारं करोति तदा मयूरः अतीव सुन्दरः भाति। एवं मयूरः स्वसौन्दर्येण वर्षायाः स्वागतं करोति।

मयूरस्य जीवनम्

मयूरः प्रायशः वने एव निवसति। तथापि कदाचित् ग्रामं परितः भ्रमन् दृश्यते। सामान्यतः यत्र जलम् उपलब्धं भवति तत्र मयूरः निवसति। मयूरः सर्वाहारी अस्ति। अर्थात् सामिषं निरामिषं च भोजनं करोति। कृषकानां क्षेत्रेषु परिभ्रमन् मयूरः बीजानि फलानि च खादति। मनुष्याणां वसतिं परितः परिभ्रमन् मयूरः मानवक्षिप्तम् उच्छिष्टं भोजनम् अपि खादति। तथैव वने विचरन् मयूरः कीटकान्, सर्पान्, लघुजन्तून् अपि खादति।
परन्तु कदाचित् मयूरः स्वयमेव भक्ष्यं भवितुं शक्नोति। प्रमुखतः चित्रव्याघ्राः मयूरं खादितुं प्रयत्नं कुर्वन्ति। तथापि मयूराः समूहेन एकत्रीभूयः विचरन्ति। अतः तेषां सर्वेषां दृष्टिः भक्षकं शीघ्रमेव परिचिनोति। तेन पलायनं कर्तुम् अवसरः प्राप्यते। कदाचित् ग्रामं परितः विचरन् कश्चन मयूरः कुक्कुराणां भक्ष्यम् अपि भवति। एते तु प्राकृतिकाः भक्षकाः सन्ति। व्याधाः मानवाः अपि कदाचित् मयूरं मारयन्ति। 

भारते मयूरस्य सांस्कृतिकं महत्त्वम्

भगवतः कृष्णस्य मुकुटे विद्यमानः मयूरपिच्छः भारतदेशे मयूरस्य सांस्कृतिकं महत्त्वं प्रदर्शयति। मयूरः भगवतः शिवपुत्रस्य कार्तिकेयस्य वाहनम् अपि अस्ति। प्राचीनमन्दिरेषु यानि शिलाशिल्पानि निर्मितानि तत्र बहुशः मयूराणां शिल्पानि सन्ति। मयूरपिच्छानाम् अन्ये अपि अनेके लाभाः सन्ति।

भारतस्य राष्ट्रीयः पक्षी - मयूरः।

भारतदेशस्य राष्ट्रीयः पक्षी मयूरः अस्ति। १९६३ तमे ख्रिस्ताब्दे जनवरीमासे भारतसर्वकारेण भारतस्य राष्ट्रीयः पक्षी - मयूरः इति घोषितम्। अतः मयूरस्य हत्या निषिद्धा अस्ति। भारत इव म्यानमारदेशस्य अपि राष्ट्रीयः पक्षी मयूरः अस्ति। परन्तु म्यानमारस्य मयूरः धूसरवर्णः अस्ति। 

पक्षिणां राजा मयूरः

एवं च सर्वतः सौन्दर्यसम्पन्नः, श्रवणमधुराभिः केकाभिः केकायमानः, पिच्छविस्तारं कृत्वा स्वनृत्येन वर्षायाः स्वागतं कुर्वन् मयूरः पक्षिणां राजा इति मन्यते। साक्षात् सृष्टिनिर्माणकर्ता ईश्वरः एव मयूरस्य मस्तके मनोहरां शिखां मुकुटरूपेण स्थापयित्वा मयूरं पक्षिकुलस्य राजपदं समर्पितवान्। एवं च मनोहारी मयूरः कस्मै न रोचते? अतः मम प्रियः पक्षी मयूरः अस्ति।